आज का विचार

जो भरा नहीं है भावों से, बहती जिसमे रसधार नहीं वो ह्रदय नहीं वह पत्थर है, जिसमे स्वदेश का प्यार नहीं

बुधवार, 10 अक्तूबर 2012

नास्ति विद्या समं चक्षु नास्ति सत्य समं तपः ।
नास्ति राग समं दुःखम् नास्ति त्याग समं सुखम् ॥


नरस्य आभरणं रूपं रूपस्य आभरणं गुणः ।
गुणस्य आभरणं ज्ञानं ज्ञानस्य आभरणं क्षमा ॥


पुस्तकस्था तु या विद्या परहस्तगतं धनम् ।
कार्यकाले समुत्पन्ने न सा विद्या न तद् धनम् ॥


अधमाः धनमिच्छन्ति धनं मानं च मध्यमाः ।
उत्तमाः मानमिच्छन्ति मानो हि महताम् धनम् ॥


वृथा वृष्टिः समुद्रेषु वृथा तृप्तेषु भोजनम्।
वृथा दानं धनाद्येषु वृथा दीपो दिवापि च ॥


पिबन्ति नद्यः स्वयम् एव न अम्भः
    स्वयं न खादन्ति फलानि वृक्षाः ।
न अदन्ति स्वयम् खलु वारिवाहा
    परोपकाराय सतां विभूतयः ॥



विदेशेषु धनं विद्या व्यसनेषु धनं मतिः ।
परलोके धनं धर्मः शीलं सर्वत्र वै धनं ॥

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें